View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
गंगा स्तोत्रम्
देवि! सुरेश्वरि! भगवति! गंगे त्रिभुवनतारिणि तरलतरंगे |
शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ‖ 1 ‖
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः |
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ‖ 2 ‖
हरिपदपाद्यतरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे |
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ‖ 3 ‖
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् |
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ‖ 4 ‖
पतितोद्धारिणि जाह्नवि गंगे खंडित गिरिवरमंडित भंगे |
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ‖ 5 ‖
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके |
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ‖ 6 ‖
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः |
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ‖ 7 ‖
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे |
इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ‖ 8 ‖
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् |
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ‖ 9 ‖
अलकानंदे परमानंदे कुरु करुणामयि कातरवंद्ये |
तव तटनिकटे यस्य निवासः खलु वैकुंठे तस्य निवासः ‖ 10 ‖
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः |
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ‖ 11 ‖
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये |
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ‖ 12 ‖
येषां हृदये गंगा भक्तिस्तेषां भवति सदा सुखमुक्तिः |
मधुराकंता पंझटिकाभिः परमानंदकलितललिताभिः ‖ 13 ‖
गंगास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम् |
शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तः ‖ 14 ‖