View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
गङ्गा स्तोत्रम्
देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे |
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ‖ 1 ‖
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः |
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ‖ 2 ‖
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे |
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ‖ 3 ‖
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् |
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ‖ 4 ‖
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे |
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ‖ 5 ‖
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके |
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ‖ 6 ‖
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः |
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ‖ 7 ‖
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे |
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ‖ 8 ‖
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् |
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ‖ 9 ‖
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये |
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ‖ 10 ‖
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः |
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ‖ 11 ‖
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये |
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ‖ 12 ‖
येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः |
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः ‖ 13 ‖
गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् |
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः ‖ 14 ‖