View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत त्रयोदशोऽध्यायः

अथ त्रयोदशोऽध्यायः |


श्रीभगवानुवाच |
इदं शरीरं कौंतेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ‖ 1 ‖

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ‖ 2 ‖

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ‖ 3 ‖

ऋषिभिर्बहुधा गीतं छंदोभिर्विविधैः पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ‖ 4 ‖

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |
इंद्रियाणि दशैकं च पंच चेंद्रियगोचराः ‖ 5 ‖

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ‖ 6 ‖

अमानित्वमदंभित्वमहिंसा क्षांतिरार्जवम् |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ‖ 7 ‖

इंद्रियार्थेषु वैराग्यमनहंकार एव च |
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ‖ 8 ‖

असक्तिरनभिष्वंगः पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ‖ 9 ‖

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ‖ 10 ‖

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ‖ 11 ‖

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ‖ 12 ‖

सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् |
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ‖ 13 ‖

सर्वेंद्रियगुणाभासं सर्वेंद्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ‖ 14 ‖

बहिरंतश्च भूतानामचरं चरमेव च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चांतिके च तत् ‖ 15 ‖

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ‖ 16 ‖

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ‖ 17 ‖

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ‖ 18 ‖

प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि |
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ‖ 19 ‖

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ‖ 20 ‖

पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान्गुणान् |
कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु ‖ 21 ‖

उपद्रष्टानुमंता च भर्ता भोक्ता महेश्वरः |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ‖ 22 ‖

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ‖ 23 ‖

ध्यानेनात्मनि पश्यंति केचिदात्मानमात्मना |
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ‖ 24 ‖

अन्ये त्वेवमजानंतः श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरंत्येव मृत्युं श्रुतिपरायणाः ‖ 25 ‖

यावत्संजायते किंचित्सत्त्वं स्थावरजंगमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ‖ 26 ‖

समं सर्वेषु भूतेषु तिष्ठंतं परमेश्वरम् |
विनश्यत्स्वविनश्यंतं यः पश्यति स पश्यति ‖ 27 ‖

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ‖ 28 ‖

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |
यः पश्यति तथात्मानमकर्तारं स पश्यति ‖ 29 ‖

यदा भूतपृथग्भावमेकस्थमनुपश्यति |
तत एव च विस्तारं ब्रह्म संपद्यते तदा ‖ 30 ‖

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |
शरीरस्थोऽपि कौंतेय न करोति न लिप्यते ‖ 31 ‖

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ‖ 32 ‖

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ‖ 33 ‖

क्षेत्रक्षेत्रज्ञयोरेवमंतरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये विदुर्यांति ते परम् ‖ 34 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ‖13 ‖