View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत एकादशोऽध्यायः

अथ एकादशोऽध्यायः |


अर्जुन उवाच |
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् |
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ‖ 1 ‖

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ‖ 2 ‖

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ‖ 3 ‖

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ‖ 4 ‖


श्रीभगवानुवाच |
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ‖ 5 ‖

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ‖ 6 ‖

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ‖ 7 ‖

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ‖ 8 ‖


संजय उवाच |
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ‖ 9 ‖

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ‖ 10 ‖

दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् |
सर्वाश्चर्यमयं देवमनंतं विश्वतोमुखम् ‖ 11 ‖

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ‖ 12 ‖

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पांडवस्तदा ‖ 13 ‖

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः |
प्रणम्य शिरसा देवं कृतांजलिरभाषत ‖ 14 ‖


अर्जुन उवाच |
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्|
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ‖ 15 ‖

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनंतरूपम्|
नांतं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ‖ 16 ‖

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमंतम्|
पश्यामि त्वां दुर्निरीक्ष्यं समंताद्दीप्तानलार्कद्युतिमप्रमेयम् ‖ 17 ‖

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्|
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ‖ 18 ‖

अनादिमध्यांतमनंतवीर्यमनंतबाहुं शशिसूर्यनेत्रम्|
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपंतम् ‖ 19 ‖

द्यावापृथिव्योरिदमंतरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः|
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ‖ 20 ‖

अमी हि त्वां सुरसंघा विशंति केचिद्भीताः प्रांजलयो गृणंति|
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवंति त्वां स्तुतिभिः पुष्कलाभिः ‖ 21 ‖

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च|
गंधर्वयक्षासुरसिद्धसंघा वीक्षंते त्वां विस्मिताश्चैव सर्वे ‖ 22 ‖

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्|
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ‖ 23 ‖

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्|
दृष्ट्वा हि त्वां प्रव्यथितांतरात्मा धृतिं न विंदामि शमं च विष्णो ‖ 24 ‖

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि|
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ‖ 25 ‖

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः|
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ‖ 26 ‖

वक्त्राणि ते त्वरमाणा विशंति दंष्ट्राकरालानि भयानकानि|
केचिद्विलग्ना दशनांतरेषु संदृश्यंते चूर्णितैरुत्तमांगैः ‖ 27 ‖

यथा नदीनां बहवोऽंबुवेगाः समुद्रमेवाभिमुखा द्रवंति|
तथा तवामी नरलोकवीरा विशंति वक्त्राण्यभिविज्वलंति ‖ 28 ‖

यथा प्रदीप्तं ज्वलनं पतंगा विशंति नाशाय समृद्धवेगाः|
तथैव नाशाय विशंति लोकास्तवापि वक्त्राणि समृद्धवेगाः ‖ 29 ‖

लेलिह्यसे ग्रसमानः समंताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः|
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपंति विष्णो ‖ 30 ‖

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद|
विज्ञातुमिच्छामि भवंतमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ‖ 31 ‖


श्रीभगवानुवाच |
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः|
ऋतेऽपि त्वां न भविष्यंति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ‖ 32 ‖

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुंक्ष्व राज्यं समृद्धम्|
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ‖ 33 ‖

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्|
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ‖ 34 ‖


संजय उवाच |
एतच्छ्रुत्वा वचनं केशवस्य कृतांजलिर्वेपमानः किरीटी|
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ‖ 35 ‖


अर्जुन उवाच |
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च|
रक्षांसि भीतानि दिशो द्रवंति सर्वे नमस्यंति च सिद्धसंघाः ‖ 36 ‖

कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे|
अनंत देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ‖ 37 ‖

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्|
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनंतरूप ‖ 38 ‖

वायुर्यमोऽग्निर्वरुणः शशांकः प्रजापतिस्त्वं प्रपितामहश्च|
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ‖ 39 ‖

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व|
अनंतवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ‖ 40 ‖

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति|
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ‖ 41 ‖

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु|
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ‖ 42 ‖

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्|
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ‖ 43 ‖

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्|
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ‖ 44 ‖

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे|
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ‖ 45 ‖

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव|
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ‖ 46 ‖


श्रीभगवानुवाच |
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्|
तेजोमयं विश्वमनंतमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ‖ 47 ‖

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः|
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ‖ 48 ‖

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्|
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ‖ 49 ‖


संजय उवाच |
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः|
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ‖ 50 ‖


अर्जुन उवाच |
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ‖ 51 ‖


श्रीभगवानुवाच |
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शनकांक्षिणः ‖ 52 ‖

नाहं वेदैर्न तपसा न दानेन न चेज्यया |
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ‖ 53 ‖

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ‖ 54 ‖

मत्कर्मकृन्मत्परमो मद्भक्तः संगवर्जितः |
निर्वैरः सर्वभूतेषु यः स मामेति पांडव ‖ 55 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ‖11 ‖