View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

गणेश अष्टोत्तर शत नाम स्तोत्रम्


विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः |
स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ‖ 1 ‖

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदोऽव्ययः
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ‖ 2 ‖

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः |
शुद्धो बुद्धिप्रियश्शांतो ब्रह्मचारी गजाननः ‖ 3 ‖

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः |
एकदंतश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ‖ 4 ‖

लंबोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः |
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ‖ 5 ‖

पाशांकुशधरश्चंडो गुणातीतो निरंजनः |
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदांबुजः ‖ 6 ‖

बीजपूरफलासक्तो वरदश्शाश्वतः कृती |
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ‖ 7 ‖

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः |
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ‖ 8 ‖

चंद्रचूडामणिः कांतः पापहारी समाहितः |
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ‖ 9 ‖

शांतः कैवल्यसुखदस्सच्चिदानंदविग्रहः |
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ‖ 10 ‖

प्रमत्तदैत्यभयदः श्रीकंठो विबुधेश्वरः |
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ‖ 11 ‖

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः |
स्थूलतुंडोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ‖ 12 ‖

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् |
शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ‖ 13 ‖

स्वलावण्यसुधासारो जितमन्मथविग्रहः |
समस्तजगदाधारो मायी मूषकवाहनः ‖ 14 ‖

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः |
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ‖ 15 ‖

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः |
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ‖ 16 ‖

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः |
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ‖