View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
गणेश अष्टोत्तर शत नाम स्तोत्रम्
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः |
स्कन्दाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ‖ 1 ‖
अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोऽव्ययः
सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ‖ 2 ‖
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः |
शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ‖ 3 ‖
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः |
एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ‖ 4 ‖
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः |
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ‖ 5 ‖
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः |
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ‖ 6 ‖
बीजपूरफलासक्तो वरदश्शाश्वतः कृती |
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ‖ 7 ‖
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः |
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ‖ 8 ‖
चन्द्रचूडामणिः कान्तः पापहारी समाहितः |
अश्रितश्रीकरस्सौम्यो भक्तवाञ्छितदायकः ‖ 9 ‖
शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः |
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ‖ 10 ‖
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः |
रमार्चितोविधिर्नागराजयज्ञोपवीतवान् ‖ 11 ‖
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः |
स्थूलतुण्डोऽग्रणीर्धीरो वागीशस्सिद्धिदायकः ‖ 12 ‖
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् |
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ‖ 13 ‖
स्वलावण्यसुधासारो जितमन्मथविग्रहः |
समस्तजगदाधारो मायी मूषकवाहनः ‖ 14 ‖
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः |
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ‖ 15 ‖
तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुत्यतः |
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ‖ 16 ‖
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः |
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ‖