View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

चन्द्र कवचम्

अस्य श्री चन्द्र कवचस्य | गौतम ऋषिः | अनुष्टुप् छन्दः | श्री चन्द्रो देवता | चन्द्र प्रीत्यर्थे जपे विनियोगः ‖

ध्यानं

समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् |
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ‖

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ‖

अथ चन्द्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः |
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ‖ 1 ‖

प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः |
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ‖ 2 ‖

करौ सुधाकरः पातु वक्षः पातु निशाकरः |
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ‖ 3 ‖

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः |
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ‖ 4 ‖

अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा |
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ‖ 5 ‖

फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 6 ‖

‖ इति श्रीचन्द्र कवचं सम्पूर्णम् ‖