View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

चंद्र कवचम्

अस्य श्री चंद्र कवचस्य | गौतम ऋषिः | अनुष्टुप् छंदः | श्री चंद्रो देवता | चंद्र प्रीत्यर्थे जपे विनियोगः ‖

ध्यानं

समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् |
वासुदेवस्य नयनं शंकरस्य च भूषणम् ‖

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ‖

अथ चंद्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः |
चक्षुषी चंद्रमाः पातु श्रुती पातु निशापतिः ‖ 1 ‖

प्राणं क्षपकरः पातु मुखं कुमुदबांधवः |
पातु कंठं च मे सोमः स्कंधे जैवातृकस्तथा ‖ 2 ‖

करौ सुधाकरः पातु वक्षः पातु निशाकरः |
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ‖ 3 ‖

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः |
ऊरू तारापतिः पातु मृगांको जानुनी सदा ‖ 4 ‖

अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा |
सर्वाण्यन्यानि चांगानि पातु चंद्रोखिलं वपुः ‖ 5 ‖

फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 6 ‖

‖ इति श्रीचंद्र कवचं संपूर्णम् ‖