View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अर्ध नारीश्वर अष्टकम्
चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय |
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ‖ 1 ‖
कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय |
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ‖ 2 ‖
झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय |
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ‖ 3 ‖
विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय |
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ‖ 4 ‖
मंदारमालाकलितालकायै
कपालमालांकितकंधराय |
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ‖ 5 ‖
अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ‖ 6 ‖
प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय |
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ‖ 7 ‖
प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय |
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ‖ 8 ‖
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी |
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः ‖