View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्रीमद् भगवद् गीत चतुर्थोऽध्यायः
अथ चतुर्थोऽध्यायः |
श्रीभगवानुवाच |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ‖ 1 ‖
एवं परंपराप्राप्तमिमं राजर्षयो विदुः |
स कालेनेह महता योगो नष्टः परंतप ‖ 2 ‖
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ‖ 3 ‖
अर्जुन उवाच |
अपरं भवतो जन्म परं जन्म विवस्वतः |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ‖ 4 ‖
श्रीभगवानुवाच |
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ‖ 5 ‖
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ‖ 6 ‖
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ‖ 7 ‖
परित्राणाय साधूनां विनाशाय च दुष्कृताम् |
धर्मसंस्थापनार्थाय संभवामि युगे युगे ‖ 8 ‖
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ‖ 9 ‖
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |
बहवो ज्ञानतपसा पूता मद्भावमागताः ‖ 10 ‖
ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ‖ 11 ‖
कांक्षंतः कर्मणां सिद्धिं यजंत इह देवताः |
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ‖ 12 ‖
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ‖ 13 ‖
न मां कर्माणि लिंपंति न मे कर्मफले स्पृहा |
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ‖ 14 ‖
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ‖ 15 ‖
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः |
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 16 ‖
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ‖ 17 ‖
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ‖ 18 ‖
यस्य सर्वे समारंभाः कामसंकल्पवर्जिताः |
ज्ञानाग्निदग्धकर्माणं तमाहुः पंडितं बुधाः ‖ 19 ‖
त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः |
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ‖ 20 ‖
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ‖ 21 ‖
यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः |
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ‖ 22 ‖
गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः |
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ‖ 23 ‖
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |
ब्रह्मैव तेन गंतव्यं ब्रह्मकर्मसमाधिना ‖ 24 ‖
दैवमेवापरे यज्ञं योगिनः पर्युपासते |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ‖ 25 ‖
श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति |
शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति ‖ 26 ‖
सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ‖ 27 ‖
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ‖ 28 ‖
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ‖ 29 ‖
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ‖ 30 ‖
यज्ञशिष्टामृतभुजो यांति ब्रह्म सनातनम् |
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ‖ 31 ‖
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ‖ 32 ‖
श्रेयांद्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप |
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ‖ 33 ‖
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यंति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ‖ 34 ‖
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पांडव |
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ‖ 35 ‖
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ‖ 36 ‖
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ‖ 37 ‖
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |
तत्स्वयं योगसंसिद्धः कालेनात्मनि विंदति ‖ 38 ‖
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेंद्रियः |
ज्ञानं लब्ध्वा परां शांतिमचिरेणाधिगच्छति ‖ 39 ‖
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ‖ 40 ‖
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् |
आत्मवंतं न कर्माणि निबध्नंति धनंजय ‖ 41 ‖
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ‖ 42 ‖
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ‖4 ‖