View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः |


अर्जुन उवाच |
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |
तत्किं कर्मणि घोरे मां नियोजयसि केशव ‖ 1 ‖

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ‖ 2 ‖


श्रीभगवानुवाच |
लोकेऽस्मिंद्विविधा निष्ठा पुरा प्रोक्ता मयानघ |
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ‖ 3 ‖

न कर्मणामनारंभान्नैष्कर्म्यं पुरुषोऽश्नुते |
न च संन्यसनादेव सिद्धिं समधिगच्छति ‖ 4 ‖

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ‖ 5 ‖

कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् |
इंद्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ‖ 6 ‖

यस्त्विंद्रियाणि मनसा नियम्यारभतेऽर्जुन |
कर्मेंद्रियैः कर्मयोगमसक्तः स विशिष्यते ‖ 7 ‖

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ‖ 8 ‖

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबंधनः |
तदर्थं कर्म कौंतेय मुक्तसंगः समाचर ‖ 9 ‖

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ‖ 10 ‖

देवान्भावयतानेन ते देवा भावयंतु वः |
परस्परं भावयंतः श्रेयः परमवाप्स्यथ ‖ 11 ‖

इष्टान्भोगान्हि वो देवा दास्यंते यज्ञभाविताः |
तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः ‖ 12 ‖

यज्ञशिष्टाशिनः संतो मुच्यंते सर्वकिल्बिषैः |
भुंजते ते त्वघं पापा ये पचंत्यात्मकारणात् ‖ 13 ‖

अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः |
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ‖ 14 ‖

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ‖ 15 ‖

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |
अघायुरिंद्रियारामो मोघं पार्थ स जीवति ‖ 16 ‖

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ‖ 17 ‖

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ‖ 18 ‖

तस्मादसक्तः सततं कार्यं कर्म समाचर |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ‖ 19 ‖

कर्मणैव हि संसिद्धिमास्थिता जनकादयः |
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ‖ 20 ‖

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ‖ 21 ‖

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन |
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ‖ 22 ‖

यदि ह्यहं न वर्तेयं जातु कर्मण्यतंद्रितः |
मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ‖ 23 ‖

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ‖ 24 ‖

सक्ताः कर्मण्यविद्वांसो यथा कुर्वंति भारत |
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ‖ 25 ‖

न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् |
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ‖ 26 ‖

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |
अहंकारविमूढात्मा कर्ताहमिति मन्यते ‖ 27 ‖

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |
गुणा गुणेषु वर्तंत इति मत्वा न सज्जते ‖ 28 ‖

प्रकृतेर्गुणसंमूढाः सज्जंते गुणकर्मसु |
तानकृत्स्नविदो मंदान्कृत्स्नविन्न विचालयेत् ‖ 29 ‖

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ‖ 30 ‖

ये मे मतमिदं नित्यमनुतिष्ठंति मानवाः |
श्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभिः ‖ 31 ‖

ये त्वेतदभ्यसूयंतो नानुतिष्ठंति मे मतम् |
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ‖ 32 ‖

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यांति भूतानि निग्रहः किं करिष्यति ‖ 33 ‖

इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपंथिनौ ‖ 34 ‖

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ‖ 35 ‖


अर्जुन उवाच |
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ‖ 36 ‖


श्रीभगवानुवाच |
काम एष क्रोध एष रजोगुणसमुद्भवः |
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ‖ 37 ‖

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ‖ 38 ‖

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |
कामरूपेण कौंतेय दुष्पूरेणानलेन च ‖ 39 ‖

इंद्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ‖ 40 ‖

तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ |
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ‖ 41 ‖

इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः |
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ‖ 42 ‖

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ‖ 43 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

कर्मयोगो नाम तृतीयोऽध्यायः ‖3 ‖