View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत चतुर्दशोऽध्यायः

अथ चतुर्दशोऽध्यायः |


श्रीभगवानुवाच |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ‖ 1 ‖

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायंते प्रलये न व्यथंति च ‖ 2 ‖

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
संभवः सर्वभूतानां ततो भवति भारत ‖ 3 ‖

सर्वयोनिषु कौंतेय मूर्तयः संभवंति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ‖ 4 ‖

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः |
निबध्नंति महाबाहो देहे देहिनमव्ययम् ‖ 5 ‖

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसंगेन बध्नाति ज्ञानसंगेन चानघ ‖ 6 ‖

रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् |
तन्निबध्नाति कौंतेय कर्मसंगेन देहिनम् ‖ 7 ‖

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ‖ 8 ‖

सत्त्वं सुखे संजयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ‖ 9 ‖

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ‖ 10 ‖

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ‖ 11 ‖

लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा |
रजस्येतानि जायंते विवृद्धे भरतर्षभ ‖ 12 ‖

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायंते विवृद्धे कुरुनंदन ‖ 13 ‖

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ‖ 14 ‖

रजसि प्रलयं गत्वा कर्मसंगिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते ‖ 15 ‖

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ‖ 16 ‖

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ‖ 17 ‖

ऊर्ध्वं गच्छंति सत्त्वस्था मध्ये तिष्ठंति राजसाः |
जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः ‖ 18 ‖

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ‖ 19 ‖

गुणानेतानतीत्य त्रींदेही देहसमुद्भवान् |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ‖ 20 ‖


अर्जुन उवाच |
कैर्लिंगैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ‖ 21 ‖


श्रीभगवानुवाच |
प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव |
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ‖ 22 ‖

उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तंत इत्येव योऽवतिष्ठति नेंगते ‖ 23 ‖

समदुःखसुखः स्वस्थः समलोष्टाश्मकांचनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिंदात्मसंस्तुतिः ‖ 24 ‖

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारंभपरित्यागी गुणातीतः स उच्यते ‖ 25 ‖

मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ‖ 26 ‖

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकांतिकस्य च ‖ 27 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ‖14 ‖