View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम्
‖ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ‖
वासुदेवं हृषीकेशं वामनं जलशायिनम् |
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ‖ 1 ‖
वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् |
अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ‖ 2 ‖
नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् |
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ‖ 3 ‖
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् |
चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ‖ 4 ‖
वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् |
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ‖ 5 ‖
रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् |
श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ‖ 6 ‖
दामोदरं दमोपेतं केशवं केशिसूदनम् |
वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ‖ 7 ‖
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् |
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ‖ 8 ‖
हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् |
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ‖ 9 ‖
ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् |
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ‖ 10 ‖
ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् |
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ‖ 11 ‖
ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् |
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ‖ 12 ‖
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ‖ 13 ‖
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् |
चांद्रायणसहस्राणि कन्यादानशतानि च ‖ 14 ‖
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः |
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ‖ 15 ‖
‖ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ‖