View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
शुक्र कवचम्
ध्यानम्
मृणालकुंदेंदुपयोजसुप्रभं
पीतांबरं प्रसृतमक्षमालिनम् |
समस्तशास्त्रार्थविधिं महांतं
ध्यायेत्कविं वांछितमर्थसिद्धये ‖ 1 ‖
अथ शुक्रकवचम्
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः |
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ‖ 2 ‖
पातु मे नासिकां काव्यो वदनं दैत्यवंदितः |
वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ‖ 3 ‖
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ‖ 4 ‖
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः |
जानुं जाड्यहरः पातु जंघे ज्ञानवतां वरः ‖ 5 ‖
गुल्फौ गुणनिधिः पातु पातु पादौ वरांबरः |
सर्वाण्यंगानि मे पातु स्वर्णमालापरिष्कृतः ‖ 6 ‖
फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः |
न तस्य जायते पीडा भार्गवस्य प्रसादतः ‖ 7 ‖
‖ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णम् ‖