View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
शुक्र कवचम्
ध्यानम्
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् |
समस्तशास्त्रार्थविधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ‖ 1 ‖
अथ शुक्रकवचम्
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः |
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ‖ 2 ‖
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः |
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ‖ 3 ‖
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ‖ 4 ‖
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः |
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ‖ 5 ‖
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः |
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ‖ 6 ‖
फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः |
न तस्य जायते पीडा भार्गवस्य प्रसादतः ‖ 7 ‖
‖ इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ‖