View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

शिव भुजंग प्रयात स्तोत्रम्


कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसंदायकाय |
यतींद्रैरुपास्यांघ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शंकराय ‖1‖

चिदानंदरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् |
मुदा गीयमानाय वेदोत्तमांगैः
श्रितानंददात्रे नमः शंकराय ‖2‖

जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मंदिरूपस्य शंभोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ‖3‖

नखेंदुप्रभाधूतनम्रालिहार्दा-
ंधकारव्रजायाब्जमंदस्मिताय |
महामोहपाथोनिधेर्बाडबाय
प्रशांताय कुर्मो नमः शंकराय ‖4‖

प्रणम्रांतरंगाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् |
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शंकराय ‖5‖

प्रणम्रास्यपाथोजमोदप्रदात्रे
सदांतस्तमस्तोमसंहारकर्त्रे |
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शंकराय ‖6‖

नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् |
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ‖7‖

प्रभाधूतचंद्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्|
प्रतीपाय नम्रौघदुःखाघपंक्ते-
र्मुदा सर्वदा स्यान्नमः शंकराय ‖8‖

विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि |
रजांसि प्रपन्नानि पादांबुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ‖9‖

मतेर्वेदशीर्षाध्वसंप्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः |
ततेः पापबृंदस्य शीघ्रं निहंत्रे
स्मितास्याय कुर्मो नमः शंकराय ‖10‖

सुपर्वोक्तिगंधेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे|
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शंकराय ‖11‖

भवांभोधिमग्नान्जनांदुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् |
विदित्वा हि ते कीर्तिमन्यादृशांभो
सुखं निर्विशंकः स्वपिम्यस्तयत्नः ‖12‖

‖इति श्रीशंकराचार्य भुजंगप्रयातस्तोत्रम्‖