View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

शिव अष्टोत्तर शत नाम स्तोत्रम्

शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ‖ 1 ‖

शंकरश्शूलपाणिश्च खट्वांगी विष्णुवल्लभः
शिपिविष्टोंबिकानाथः श्रीकंठो भक्तवत्सलः ‖ 2 ‖

भवश्शर्वस्त्रिलोकेशः शितिकंठः शिवप्रियः
उग्रः कपाली कामारी अंधकासुरसूदनः ‖ 3 ‖

गंगाधरो ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ‖ 4 ‖

कैलासवासी कवची कठोरस्त्रिपुरांतकः
वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ‖ 5 ‖

सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ‖ 6 ‖

हविर्यज्ञमयस्सोमः पंचवक्त्रस्सदाशिवः
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ‖ 7 ‖

हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः
भुजंगभूषणो भर्गो गिरिधन्वी गिरिप्रियः ‖ 8 ‖

कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
मृत्युंजयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ‖ 9 ‖

व्योमकेशो महासेनजनकश्चारुविक्रमः
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगंबरः ‖ 10 ‖

अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः
शाश्वतः खंडपरशुरजः पाशविमोचकः ‖ 11 ‖

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः
पूषदंतभिदव्यग्रो दक्षाध्वरहरो हरः ‖ 12 ‖

भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात्
अपवर्गप्रदोऽनंतस्तारकः परमेश्वरः ‖ 13 ‖

एवं श्री शंभुदेवस्य नाम्नामष्टोत्तरंशतम् ‖