View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

शिव अष्टोत्तर शत नाम स्तोत्रम्

शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ‖ 1 ‖

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः
शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ‖ 2 ‖

भवश्शर्वस्त्रिलोकेशः शितिकण्ठः शिवप्रियः
उग्रः कपाली कामारी अन्धकासुरसूदनः ‖ 3 ‖

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ‖ 4 ‖

कैलासवासी कवची कठोरस्त्रिपुरान्तकः
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ‖ 5 ‖

सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ‖ 6 ‖

हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ‖ 7 ‖

हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः
भुजङ्गभूषणो भर्गो गिरिधन्वी गिरिप्रियः ‖ 8 ‖

कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ‖ 9 ‖

व्योमकेशो महासेनजनकश्चारुविक्रमः
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगम्बरः ‖ 10 ‖

अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः
शाश्वतः खण्डपरशुरजः पाशविमोचकः ‖ 11 ‖

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ‖ 12 ‖

भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात्
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ‖ 13 ‖

एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरंशतम् ‖