View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
शनि वज्रपंजर कवचम्
नीलांबरो नीलवपुः किरीटी
गृध्रस्थितास्त्रकरो धनुष्मान् |
चतुर्भुजः सूर्यसुतः प्रसन्नः
सदा ममस्याद्वरदः प्रशांतः ‖
ब्रह्मा उवाच |
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् |
कवचं शनिराजस्य सौरैरिदमनुत्तमं ‖
कवचं देवतावासं वज्र पंजर संंगकम् |
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ‖
अथ श्री शनि वज्र पंजर कवचम् |
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनंदनः |
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ‖ 1 ‖
नासां वैवस्वतः पातु मुखं मे भास्करः सदा |
स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः ‖ 2 ‖
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ‖ 3 ‖
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा |
ऊरू ममांतकः पातु यमो जानुयुगं तथा ‖ 4 ‖
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः |
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनंदनः ‖ 5 ‖
फलश्रुतिः
इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ‖
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा |
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ‖
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठते नित्यं न पीडा जायते क्वचित् ‖
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा |
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा |
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ‖
इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे शनिवज्रपंजर कवचं संपूर्णम् ‖