View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
शनि वज्रपञ्जर कवचम्
नीलाम्बरो नीलवपुः किरीटी
गृध्रस्थितास्त्रकरो धनुष्मान् |
चतुर्भुजः सूर्यसुतः प्रसन्नः
सदा ममस्याद्वरदः प्रशान्तः ‖
ब्रह्मा उवाच |
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् |
कवचं शनिराजस्य सौरैरिदमनुत्तमं ‖
कवचं देवतावासं वज्र पञ्जर संङ्गकम् |
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ‖
अथ श्री शनि वज्र पञ्जर कवचम् |
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः |
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ‖ 1 ‖
नासां वैवस्वतः पातु मुखं मे भास्करः सदा |
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ‖ 2 ‖
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ‖ 3 ‖
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा |
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ‖ 4 ‖
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः |
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ‖ 5 ‖
फलश्रुतिः
इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ‖
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा |
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ‖
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे |
कवचं पठते नित्यं न पीडा जायते क्वचित् ‖
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा |
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा |
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ‖
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ‖