View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

दक्षिणा मूर्ति स्तोत्रम्

शांतिपाठः
ॐ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै |
तंहदेवमात्म बुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ‖

ध्यानम्
ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं
वर्शिष्ठांतेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः |
आचार्येंद्रं करकलित चिन्मुद्रमानंदमूर्तिं
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ‖

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् |
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ‖

चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा |
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ‖

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये |
निर्मलाय प्रशांताय दक्षिणामूर्तये नमः ‖

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ‖

निधये सर्वविद्यानां भिषजे भवरोगिणाम् |
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ‖

चिदोघनाय महेशाय वटमूलनिवासिने |
सच्चिदानंद रूपाय दक्षिणामूर्तये नमः ‖

ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने |
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ‖

अंगुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् |
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ‖

ॐ शांतिः शांतिः शांतिः ‖

विश्वंदर्पण दृश्यमान नगरी तुल्यं निजांतर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया |
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 1 ‖

बीजस्यांतति वांकुरो जगदितं प्राङ्नर्विकल्पं पुनः
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतं |
मायावीव विजृंभयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 2 ‖

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् |
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवांभोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 3 ‖

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पंदते |
जानामीति तमेव भांतमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 4 ‖

देहं प्राणमपींद्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री बालांध जडोपमास्त्वहमिति भ्रांताभृशं वादिनः |
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 5 ‖

राहुग्रस्त दिवाकरेंदु सदृशो माया समाच्छादनात्
सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् |
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 6 ‖

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यंतः स्फुरंतं सदा |
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 7 ‖

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबंधतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः |
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 8 ‖

भूरंभांस्यनलोऽनिलोऽंबर महर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् |
नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो
तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ‖ 9 ‖

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च संकीर्तनात् |
सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ‖ 10 ‖


‖ इति श्रीमच्छंकराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं संपूर्णम् ‖