View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

बुध कवचम्

अस्य श्रीबुधकवचस्तोत्रमंत्रस्य, कश्यप ऋषिः,
अनुष्टुप् छंदः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः |

अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः |
पीतांबरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम |
कंठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖

जानुनी रौहिणेयश्च पातु जंघे??उखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ‖ 5 ‖

अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖

‖ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णम् ‖