View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत सप्तदशोऽध्यायः

अथ सप्तदशोऽध्यायः |


अर्जुन उवाच |
ये शास्त्रविधिमुत्सृज्य यजंते श्रद्धयान्विताः |
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ‖ 1 ‖


श्रीभगवानुवाच |
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ‖ 2 ‖

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ‖ 3 ‖

यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
प्रेतान्भूतगणांश्चान्ये यजंते तामसा जनाः ‖ 4 ‖

अशास्त्रविहितं घोरं तप्यंते ये तपो जनाः |
दंभाहंकारसंयुक्ताः कामरागबलान्विताः ‖ 5 ‖

कर्षयंतः शरीरस्थं भूतग्राममचेतसः |
मां चैवांतःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ‖ 6 ‖

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ‖ 7 ‖

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ‖ 8 ‖

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ‖ 9 ‖

यातयामं गतरसं पूति पर्युषितं च यत् |
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ‖ 10 ‖

अफलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ‖ 11 ‖

अभिसंधाय तु फलं दंभार्थमपि चैव यत् |
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ‖ 12 ‖

विधिहीनमसृष्टान्नं मंत्रहीनमदक्षिणम् |
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ‖ 13 ‖

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ‖ 14 ‖

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ‖ 15 ‖

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ‖ 16 ‖

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |
अफलाकांक्षिभिर्युक्तैः सात्त्विकं परिचक्षते ‖ 17 ‖

सत्कारमानपूजार्थं तपो दंभेन चैव यत् |
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ‖ 18 ‖

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ‖ 19 ‖

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ‖ 20 ‖

यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः |
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ‖ 21 ‖

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ‖ 22 ‖

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ‖ 23 ‖

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
प्रवर्तंते विधानोक्ताः सततं ब्रह्मवादिनाम् ‖ 24 ‖

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः |
दानक्रियाश्च विविधाः क्रियंते मोक्षकांक्षिभिः ‖ 25 ‖

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ‖ 26 ‖

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ‖ 27 ‖

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेप्य नो इह ‖ 28 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ‖17 ‖