View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्रीमद् भगवद् गीत द्वादशोऽध्यायः
अथ द्वादशोऽध्यायः |
अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ‖ 1 ‖
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ‖ 2 ‖
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिंत्यं च कूटस्थमचलं ध्रुवम् ‖ 3 ‖
संनियम्येंद्रियग्रामं सर्वत्र समबुद्धयः |
ते प्राप्नुवंति मामेव सर्वभूतहिते रताः ‖ 4 ‖
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् |
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ‖ 5 ‖
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः |
अनन्येनैव योगेन मां ध्यायंत उपासते ‖ 6 ‖
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामिन चिरात्पार्थ मय्यावेशितचेतसाम् ‖ 7 ‖
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ‖ 8 ‖
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ‖ 9 ‖
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ‖ 10 ‖
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ‖ 11 ‖
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छांतिरनंतरम् ‖ 12 ‖
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |
निर्ममो निरहंकारः समदुःखसुखः क्षमी ‖ 13 ‖
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः |
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ‖ 14 ‖
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ‖ 15 ‖
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |
सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः ‖ 16 ‖
यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति |
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ‖ 17 ‖
समः शत्रौ च मित्रे च तथा मानापमानयोः |
शीतोष्णसुखदुःखेषु समः संगविवर्जितः ‖ 18 ‖
तुल्यनिंदास्तुतिर्मौनी संतुष्टो येन केनचित् |
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ‖ 19 ‖
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ‖ 20 ‖
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ‖12 ‖