View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

महा गणपति सहस्रनाम स्तोत्रम्

मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् |
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ‖ 1 ‖

ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे |
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ‖ 2 ‖

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् |
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ‖ 3 ‖

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् |
संतुष्टः पूजया शंभोर्महागणपतिः स्वयम् ‖ 4 ‖

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् |
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ‖ 5 ‖

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामंत्रस्य |
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छंदांसि |
हुमिति बीजम्, तुंगमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् |
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः |

अथ करन्यासः
गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नमः |
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ‖
ब्रह्मांडकुंभश्चिद्व्योमेति मध्यमाभ्यां नमः |
रक्तो रक्तांबरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः |
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ‖

अथ अंगन्यासः
छंदश्छंदोद्भव इति हृदयाय नमः |
निष्कलो निर्मल इति शिरसे स्वाहा |
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् |
ज्ञानं विज्ञानमानंद इति कवचाय हुम् |
अष्टांगयोगफलभृदिति नेत्रत्रयाय वौषट् |
अनंतशक्तिसहित इत्यस्त्राय फट् |
भूर्भुवः स्वरोम् इति दिग्बंधः |

अथ ध्यानम्
गजवदनमचिंत्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् |
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ‖

श्रीगणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः |
एकदंतो वक्रतुंडो गजवक्त्रो महोदरः ‖ 1 ‖

लंबोदरो धूम्रवर्णो विकटो विघ्ननाशनः |
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ‖ 2 ‖

भीमः प्रमोद आमोदः सुरानंदो मदोत्कटः |
हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः ‖ 3 ‖

नंदनो लंपटो भीमो मेघनादो गणंजयः |
विनायको विरूपाक्षो वीरः शूरवरप्रदः ‖ 4 ‖

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः |
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ‖ 5 ‖

कुमारगुरुरीशानपुत्रो मूषकवाहनः |
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ‖ 6 ‖

अविघ्नस्तुंबुरुः सिंहवाहनो मोहिनीप्रियः |
कटंकटो राजपुत्रः शाकलः संमितोमितः ‖ 7 ‖

कूष्मांडसामसंभूतिर्दुर्जयो धूर्जयो जयः |
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ‖ 8 ‖

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः |
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ‖ 9 ‖

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः |
हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः ‖ 10 ‖

कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् |
उमांककेलिकुतुकी मुक्तिदः कुलपावनः ‖ 11 ‖

किरीटी कुंडली हारी वनमाली मनोमयः |
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ‖ 12 ‖

सद्योजातः स्वर्णमुंजमेखली दुर्निमित्तहृत् |
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ‖ 13 ‖

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
पीतांबरः खंडरदः खंडवैशाखसंस्थितः ‖ 14 ‖

चित्रांगः श्यामदशनो भालचंद्रो हविर्भुजः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ‖ 15 ‖

गणाधिराजो विजयः स्थिरो गजपतिध्वजी |
देवदेवः स्मरः प्राणदीपको वायुकीलकः ‖ 16 ‖

विपश्चिद्वरदो नादो नादभिन्नमहाचलः |
वराहरदनो मृत्युंजयो व्याघ्राजिनांबरः ‖ 17 ‖

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः |
शंभुवक्त्रोद्भवः शंभुकोपहा शंभुहास्यभूः ‖ 18 ‖

शंभुतेजाः शिवाशोकहारी गौरीसुखावहः |
उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ‖ 19 ‖

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः |
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ‖ 20 ‖

ब्रह्मांडकुंभश्चिद्व्योमभालःसत्यशिरोरुहः |
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ‖ 21 ‖

गिरींद्रैकरदो धर्माधर्मोष्ठः सामबृंहितः |
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ‖ 22 ‖

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः |
कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः ‖ 23 ‖

नदीनदभुजः सर्पांगुलीकस्तारकानखः |
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ‖ 24 ‖

कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः |
पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्दस्रजानुकः ‖ 25 ‖

पातालजंघो मुनिपात्कालांगुष्ठस्त्रयीतनुः |
ज्योतिर्मंडललांगूलो हृदयालाननिश्चलः ‖ 26 ‖

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः |
सद्भक्तध्याननिगडः पूजावारिनिवारितः ‖ 27 ‖

प्रतापी काश्यपो मंता गणको विष्टपी बली |
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ‖ 28 ‖

चिंतामणिर्द्वीपपतिः कल्पद्रुमवनालयः |
रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः ‖ 29 ‖

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः |
नंदानंदितपीठश्रीर्भोगदो भूषितासनः ‖ 30 ‖

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः |
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ‖ 31 ‖

सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजालयः |
लिपिपद्मासनाधारो वह्निधामत्रयालयः ‖ 32 ‖

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः |
पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ‖ 33 ‖

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः |
पीनस्कंधः कंबुकंठो लंबोष्ठो लंबनासिकः ‖ 34 ‖

भग्नवामरदस्तुंगसव्यदंतो महाहनुः |
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ‖ 35 ‖

स्तबकाकारकुंभाग्रो रत्नमौलिर्निरंकुशः |
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ‖ 36 ‖

सर्पकोटीरकटकः सर्पग्रैवेयकांगदः |
सर्पकक्षोदराबंधः सर्पराजोत्तरच्छदः ‖ 37 ‖

रक्तो रक्तांबरधरो रक्तमालाविभूषणः |
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ‖ 38 ‖

श्वेतः श्वेतांबरधरः श्वेतमालाविभूषणः |
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ‖ 39 ‖

सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः |
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ‖ 40 ‖

सर्वमंगलमांगल्यः सर्वकारणकारणम् |
सर्वदेववरः शारंगी बीजपूरी गदाधरः ‖ 41 ‖

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः |
किरीटी कुंडली हारी वनमाली शुभांगदः ‖ 42 ‖

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् |
पाशी धृतोत्पलः शालिमंजरीभृत्स्वदंतभृत् ‖ 43 ‖

कल्पवल्लीधरो विश्वाभयदैककरो वशी |
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ‖ 44 ‖

पूर्णपात्री कंबुधरो विधृतांकुशमूलकः |
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ‖ 45 ‖

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः |
भारतीसुंदरीनाथो विनायकरतिप्रियः ‖ 46 ‖

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः |
रमारमेशपूर्वांगो दक्षिणोमामहेश्वरः ‖ 47 ‖

महीवराहवामांगो रतिकंदर्पपश्चिमः |
आमोदमोदजननः सप्रमोदप्रमोदनः ‖ 48 ‖

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः |
दंतसौमुख्यसुमुखः कांतिकंदलिताश्रयः ‖ 49 ‖

मदनावत्याश्रितांघ्रिः कृतवैमुख्यदुर्मुखः |
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ‖ 50 ‖

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः |
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ‖ 51 ‖

मोहिनीमोहनो भोगदायिनीकांतिमंडनः |
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधरः ‖ 52 ‖

वसुधारामदोन्नादो महाशंखनिधिप्रियः |
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ‖ 53 ‖

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः |
ईशानमूर्धा देवेंद्रशिखः पवननंदनः ‖ 54 ‖

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् |
ऐरावतादिसर्वाशावारणो वारणप्रियः ‖ 55 ‖

वज्राद्यस्त्रपरीवारो गणचंडसमाश्रयः |
जयाजयपरिकरो विजयाविजयावहः ‖ 56 ‖

अजयार्चितपादाब्जो नित्यानंदवनस्थितः |
विलासिनीकृतोल्लासः शौंडी सौंदर्यमंडितः ‖ 57 ‖

अनंतानंतसुखदः सुमंगलसुमंगलः |
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ‖ 58 ‖

सुभगासंश्रितपदो ललिताललिताश्रयः |
कामिनीपालनः कामकामिनीकेलिलालितः ‖ 59 ‖

सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः |
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ‖ 60 ‖

नलिनीकामुको वामारामो ज्येष्ठामनोरमः |
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः ‖ 61 ‖

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः |
अमृताब्धिकृतावासो मदघूर्णितलोचनः ‖ 62 ‖

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः |
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगंबरः ‖ 63 ‖

अनपायोऽनंतदृष्टिरप्रमेयोऽजरामरः |
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ‖ 64 ‖

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः |
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ‖ 65 ‖

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः |
आधारपीठमाधार आधाराधेयवर्जितः ‖ 66 ‖

आखुकेतन आशापूरक आखुमहारथः |
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ‖ 67 ‖

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः |
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः ‖ 68 ‖

इंदीवरदलश्याम इंदुमंडलमंडितः |
इध्मप्रिय इडाभाग इडावानिंदिराप्रियः ‖ 69 ‖

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः |
ईशानमौलिरीशान ईशानप्रिय ईतिहा ‖ 70 ‖

ईषणात्रयकल्पांत ईहामात्रविवर्जितः |
उपेंद्र उडुभृन्मौलिरुडुनाथकरप्रियः ‖ 71 ‖

उन्नतानन उत्तुंग उदारस्त्रिदशाग्रणीः |
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ‖ 72 ‖

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः |
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ‖ 73 ‖

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् |
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ‖ 74 ‖

एकारपीठमध्यस्थ एकपादकृतासनः |
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ‖ 75 ‖

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः |
ऐरंमदसमोन्मेष ऐरावतसमाननः ‖ 76 ‖

ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः |
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ‖ 77 ‖

अंकुशः सुरनागानामंकुशाकारसंस्थितः |
अः समस्तविसर्गांतपदेषु परिकीर्तितः ‖ 78 ‖

कमंडलुधरः कल्पः कपर्दी कलभाननः |
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ‖ 79 ‖

कदंबगोलकाकारः कूष्मांडगणनायकः |
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ‖ 80 ‖

खर्वः खड्गप्रियः खड्गः खांतांतःस्थः खनिर्मलः |
खल्वाटशृंगनिलयः खट्वांगी खदुरासदः ‖ 81 ‖

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः |
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ‖ 82 ‖

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः |
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ‖ 83 ‖

घंटाघर्घरिकामाली घटकुंभो घटोदरः |
ङकारवाच्यो ङाकारो ङकाराकारशुंडभृत् ‖ 84 ‖

चंडश्चंडेश्वरश्चंडी चंडेशश्चंडविक्रमः |
चराचरपिता चिंतामणिश्चर्वणलालसः ‖ 85 ‖

छंदश्छंदोद्भवश्छंदो दुर्लक्ष्यश्छंदविग्रहः |
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ‖ 86 ‖

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः |
स्रवद्गंडोल्लसद्धानझंकारिभ्रमराकुलः ‖ 87 ‖

टंकारस्फारसंरावष्टंकारमणिनूपुरः |
ठद्वयीपल्लवांतस्थसर्वमंत्रेषु सिद्धिदः ‖ 88 ‖

डिंडिमुंडो डाकिनीशो डामरो डिंडिमप्रियः |
ढक्कानिनादमुदितो ढौंको ढुंढिविनायकः ‖ 89 ‖

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः |
तारकांतरसंस्थानस्तारकस्तारकांतकः ‖ 90 ‖

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत् |
दक्षयज्ञप्रमथनो दाता दानं दमो दया ‖ 91 ‖

दयावांदिव्यविभवो दंडभृद्दंडनायकः |
दंतप्रभिन्नाभ्रमालो दैत्यवारणदारणः ‖ 92 ‖

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः |
धनं धनपतेर्बंधुर्धनदो धरणीधरः ‖ 93 ‖

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः |
ध्वनिप्रकृतिचीत्कारो ब्रह्मांडावलिमेखलः ‖ 94 ‖

नंद्यो नंदिप्रियो नादो नादमध्यप्रतिष्ठितः |
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ‖ 95 ‖

परं व्योम परं धाम परमात्मा परं पदम् ‖ 96 ‖

परात्परः पशुपतिः पशुपाशविमोचनः |
पूर्णानंदः परानंदः पुराणपुरुषोत्तमः ‖ 97 ‖

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः |
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ‖ 98 ‖

फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः |
बाणार्चितांघ्रियुगलो बालकेलिकुतूहली |
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ‖ 99 ‖

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
बृहन्नादाग्र्यचीत्कारो ब्रह्मांडावलिमेखलः ‖ 100 ‖

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः |
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ‖ 101 ‖

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः |
मंत्रो मंत्रपतिर्मंत्री मदमत्तो मनो मयः ‖ 102 ‖

मेखलाहीश्वरो मंदगतिर्मंदनिभेक्षणः |
महाबलो महावीर्यो महाप्राणो महामनाः ‖ 103 ‖

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः |
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ‖ 104 ‖

रसो रसप्रियो रस्यो रंजको रावणार्चितः |
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ‖ 105 ‖

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः |
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ‖ 106 ‖

वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः |
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ‖ 107 ‖

वामदेवो विश्वनेता वज्रिवज्रनिवारणः |
विवस्वद्बंधनो विश्वाधारो विश्वेश्वरो विभुः ‖ 108 ‖

शब्दब्रह्म शमप्राप्यः शंभुशक्तिगणेश्वरः |
शास्ता शिखाग्रनिलयः शरण्यः शंबरेश्वरः ‖ 109 ‖

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः |
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ‖ 110 ‖

सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदकः |
सिंदूरितमहाकुंभः सदसद्भक्तिदायकः ‖ 111 ‖

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः |
स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ‖ 112 ‖

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् |
हव्यं हुतप्रियो हृष्टो हृल्लेखामंत्रमध्यगः ‖ 113 ‖

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः |
क्षिप्रक्षेमकरः क्षेमानंदः क्षोणीसुरद्रुमः ‖ 114 ‖

धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः |
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ‖ 115 ‖

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः |
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ‖ 116 ‖

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः |
प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ‖ 117 ‖

पराभिचारशमनो दुःखहा बंधमोक्षदः |
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ‖ 118 ‖

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् |
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ‖ 119 ‖

राशिस्तारा तिथिर्योगो वारः करणमंशकम् |
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ‖ 120 ‖

राहुर्मंदः कविर्जीवो बुधो भौमः शशी रविः |
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत् ‖ 121 ‖

भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् |
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ‖ 122 ‖

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः |
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ‖ 123 ‖

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः |
सांख्यं पातंजलं योगं पुराणानि श्रुतिः स्मृतिः ‖ 124 ‖

वेदांगानि सदाचारो मीमांसा न्यायविस्तरः |
आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकम् ‖ 125 ‖

वैखानसं भागवतं मानुषं पांचरात्रकम् |
शैवं पाशुपतं कालामुखंभैरवशासनम् ‖ 126 ‖

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता |
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ‖ 127 ‖

बंधो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् |
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ‖

ज्ञानं विज्ञानमानंदो बोधः संवित्समोऽसमः |
एक एकाक्षराधार एकाक्षरपरायणः ‖ 129 ‖

एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् |
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ‖ 130 ‖

द्वैमातुरो द्विवदनो द्वंद्वहीनो द्वयातिगः |
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ‖ 131 ‖

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः |
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ‖ 132 ‖

चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्भुजः |
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ‖

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभवः ‖
पंचाक्षरात्मा पंचात्मा पंचास्यः पंचकृत्तमः ‖ 134 ‖

पंचाधारः पंचवर्णः पंचाक्षरपरायणः |
पंचतालः पंचकरः पंचप्रणवमातृकः ‖ 135 ‖

पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः |
पंचभक्षप्रियः पंचबाणः पंचशिखात्मकः ‖ 136 ‖

षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः |
षडंगध्वांतविध्वंसी षडंगुलमहाह्रदः ‖ 137 ‖

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः |
षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः ‖ 138 ‖

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः |
सप्तपातालचरणः सप्तद्वीपोरुमंडलः ‖ 139 ‖

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः |
सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ‖ 140 ‖

सप्तच्छंदोनिधिः सप्तहोत्रः सप्तस्वराश्रयः |
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ‖ 141 ‖

सप्तच्छंदो मोदमदः सप्तच्छंदो मखप्रभुः |
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ‖ 142 ‖

अष्टांगयोगफलभृदष्टपत्रांबुजासनः |
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ‖ 143 ‖

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः |
अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् ‖ 144 ‖

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः |
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः |
नवनागासनाध्यासी नवनिध्यनुशासितः ‖ 145 ‖

नवद्वारपुरावृत्तो नवद्वारनिकेतनः |
नवनाथमहानाथो नवनागविभूषितः ‖ 146 ‖

नवनारायणस्तुल्यो नवदुर्गानिषेवितः |
नवरत्नविचित्रांगो नवशक्तिशिरोद्धृतः ‖ 147 ‖

दशात्मको दशभुजो दशदिक्पतिवंदितः |
दशाध्यायो दशप्राणो दशेंद्रियनियामकः ‖ 148 ‖

दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः |
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ‖ 149 ‖

द्वादशद्विदशाष्टादिदोर्दंडास्त्रनिकेतनः |
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ‖ 150 ‖

चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः |
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ‖ 151 ‖

सामपंचदशः पंचदशीशीतांशुनिर्मलः |
तिथिपंचदशाकारस्तिथ्या पंचदशार्चितः ‖ 152 ‖

षोडशाधारनिलयः षोडशस्वरमातृकः |
षोडशांतपदावासः षोडशेंदुकलात्मकः ‖ 153 ‖

कलासप्तदशी सप्तदशसप्तदशाक्षरः |
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ‖ 154 ‖

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः |
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ‖ 155 ‖

अष्टादशान्नसंपत्तिरष्टादशविजातिकृत् |
एकविंशः पुमानेकविंशत्यंगुलिपल्लवः ‖ 156 ‖

चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः |
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ‖ 157 ‖

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः |
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ‖ 158 ‖

पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः |
द्विपंचाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः |
पंचाशदक्षरश्रेणीपंचाशद्रुद्रविग्रहः ‖ 159 ‖

चतुःषष्टिमहासिद्धियोगिनीवृंदवंदितः |
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः ‖ 160 ‖

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः |
अष्टषष्टिमहातीर्थक्षेत्रभैरववंदितः ‖ 161 ‖

चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः |
शतानंदः शतधृतिः शतपत्रायतेक्षणः ‖ 162 ‖

शतानीकः शतमखः शतधारावरायुधः |
सहस्रपत्रनिलयः सहस्रफणिभूषणः ‖ 163 ‖

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ‖ 164 ‖

दशसाहस्रफणिभृत्फणिराजकृतासनः |
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ‖ 165 ‖

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः |
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ‖ 166 ‖

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः |
कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः ‖ 167 ‖

शिवोद्भवाद्यष्टकोटिवैनायकधुरंधरः |
सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः ‖ 168 ‖

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः |
अनंतदेवतासेव्यो ह्यनंतशुभदायकः ‖ 169 ‖

अनंतनामानंतश्रीरनंतोऽनंतसौख्यदः |
अनंतशक्तिसहितो ह्यनंतमुनिसंस्तुतः ‖ 170 ‖

इति वैनायकं नाम्नां सहस्रमिदमीरितम् |
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ‖ 171 ‖

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् |
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ‖ 172 ‖

मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमभिरूपता |
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ‖ 173 ‖

जगत्संवननं विश्वसंवादो वेदपाटवम् |
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसम् ‖ 174 ‖

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता |
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ‖ 175 ‖

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् |
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ‖ 176 ‖

राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः |
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ‖ 177 ‖

धर्मार्थकाममोक्षाणामनायासेन साधनम् |
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ‖ 178 ‖

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् |
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ‖ 179 ‖

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् |
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ‖ 180 ‖

परकृत्यप्रशमनं परचक्रप्रमर्दनम् |
संग्राममार्गे सवेषामिदमेकं जयावहम् ‖ 181 ‖

सर्ववंध्यत्वदोषघ्नं गर्भरक्षैककारणम् |
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ‖ 182 ‖

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च |
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ‖ 183 ‖

क्षयकुष्ठप्रमेहार्शभगंदरविषूचिकाः |
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ‖ 184 ‖

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् |
शिरोरोगं वमिं हिक्कां गंडमालामरोचकम् ‖ 185 ‖

वातपित्तकफद्वंद्वत्रिदोषजनितज्वरम् |
आगंतुविषमं शीतमुष्णं चैकाहिकादिकम् ‖ 186 ‖

इत्याद्युक्तमनुक्तं वा रोगदोषादिसंभवम् |
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ‖ 187 ‖

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि |
सहस्रनाममंत्रोऽयं जपितव्यः शुभाप्तये ‖ 188 ‖

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् |
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ‖ 189 ‖

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः |
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु ‖ 190 ‖

कामरूपः कामगतिः कामदः कामदेश्वरः |
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बंधुभिः ‖ 191 ‖

गणेशानुचरो भूत्वा गणो गणपतिप्रियः |
नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ‖ 192 ‖

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः |
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ‖ 193 ‖

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते |
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ‖ 194 ‖

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः |
निरंतरे निराबाधे परमानंदसंज्ञिते ‖ 195 ‖

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते |
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ‖ 196 ‖

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये^^एन्नरः |
राजानो वश्यतां यांति रिपवो यांति दासताम् ‖ 197 ‖

तस्य सिध्यंति मंत्राणां दुर्लभाश्चेष्टसिद्धयः |
मूलमंत्रादपि स्तोत्रमिदं प्रियतमं मम ‖ 198 ‖

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि |
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ‖ 199 ‖

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः |
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ‖ 200 ‖

भविष्यति न संदेहः पुत्रपौत्रादिकं सुखम् |
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ‖ 201 ‖

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवंदितम् |
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ‖ 202 ‖

स्वच्छंदचारिणाप्येष येन संधार्यते स्तवः |
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ‖ 203 ‖

लिखितं पुस्तकस्तोत्रं मंत्रभूतं प्रपूजयेत् |
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरंतरम् ‖ 204 ‖

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च |
न तत्फलं विंदति यद्गणेशसहस्रनामस्मरणेन सद्यः ‖ 205 ‖

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहंप्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः |
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ‖ 206 ‖

अकिंचनोप्येकचित्तो नियतो नियतासनः |
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ‖ 207 ‖

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि |
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ‖ 208 ‖

आयुष्यं वीतरोगं कुलमतिविमलं संपदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कांतिरव्याजभव्या |
पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त -
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ‖ 209 ‖

गणंजयो गणपतिर्हेरंबो धरणीधरः |
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ‖ 210 ‖

अमोघसिद्धिरमृतमंत्रश्चिंतामणिर्निधिः |
सुमंगलो बीजमाशापूरको वरदः कलः ‖ 211 ‖

काश्यपो नंदनो वाचासिद्धो ढुंढिर्विनायकः |
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ‖ 212 ‖

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति |
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ‖ 213 ‖

यः स्तौति मद्गतमना ममाराधनतत्परः |
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ‖ 214 ‖

नमो नमः सुरवरपूजितांघ्रये
नमो नमो निरुपममंगलात्मने |
नमो नमो विपुलदयैकसिद्धये
नमो नमः करिकलभाननाय ते ‖ 215 ‖

किंकिणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः |
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना ‖ 216 ‖

‖ इति श्रीगणेशपुराणे उपासनाखंडे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ‖