View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्री रामाष्टोत्तर शत नाम स्तोत्रम्
‖ श्री राम अष्टोत्तर शतनामस्तोत्रम् ‖
श्रीरामो रामभद्रश्च रामचंद्रश्च शाश्वतः |
राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः ‖ 1 ‖
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दांतः शरणत्राणतत्परः ‖ 2 ‖
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रित: ‖ 3 ‖
कॊउसल्येयः खरध्वंसी विराधवधपंडितः |
विभीषणपरित्राता हरकोदंडखंडनः ‖ 4 ‖
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः |
जामदग्व्यमहादर्पदलनस्ताटकांतकः ‖ 5 ‖
वेदांतसारो वेदात्मा भवरोगस्य भेषजम् |
दूषणत्रिशिरोहंता त्रिमूर्तिस्त्रिगुणात्मकः ‖ 6 ‖
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः |
त्रिलोकरक्षको धन्वी दंडकारण्यकर्षणः ‖ 7 ‖
अहल्याशापशमनः पितृभक्तो वरप्रदः |
जितेंद्रियो जितक्रोधो जितावद्यो जगद्गुरुः ‖ 8 ‖
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः |
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ‖ 9 ‖
सर्वदेवाधिदेवश्चमृतवानरजीवनः |
मायामारीचहंता च महादेवो महाभुजः ‖ 10 ‖
सर्वदेवस्तुतः सॊउम्यो ब्रह्मण्यो मुनिसंस्तुतः |
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ‖ 11 ‖
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः |
आदिपुरुषः परमपुरुषो महापुरुष एव च ‖ 12 ‖
पुण्योदयो दयासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ‖ 13 ‖
अनंतगुणगंभीरो धीरोदात्तगुणोत्तमः |
मायामानुषचारित्रो महादेवादिपूजितः ‖ 14 ‖
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः |
श्यामांगः सुंदरः शूरः पीतवासा धनुर्धरः ‖ 15 ‖
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः |
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ‖ 16 ‖
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः |
परंज्योतिः परंधाम पराकाशः परात्परः |
परेशः पारगः पारः सर्वदेवात्मकः परः ‖ 17 ‖
श्रीरामाष्टोत्तरशतं भवतापनिवारकम् |
संपत्करं त्रिसंध्यासु पठतां भक्तिपूर्वकम् ‖ 18 ‖
रामाय रामभद्राय रामचंद्राय वेधसे |
रघुनाथाय नाथाय सीतायाःपतये नमः ‖ 19 ‖
‖ इति श्रीस्कंदपुऱाणे श्रीराम अष्टोत्तर शतनामस्तोत्रम् ‖