View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
रामायण जय मंत्रम्
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः |
दासोहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ‖
न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः |
अर्धयित्वा पुरीं लंकामभिवाद्य च मैथिलीं
समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ‖