View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

रामायण जय मन्त्रम्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः |
दासोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ‖

न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः |
अर्धयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीं
समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ‖