View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

ललिता पंच रत्नम्

प्रातः स्मरामि ललितावदनारविंदं
बिंबाधरं पृथुलमौक्तिकशोभिनासम् |
आकर्णदीर्घनयनं मणिकुंडलाढ्यं
मंदस्मितं मृगमदोज्ज्वलफालदेशम् ‖ 1 ‖

प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्तांगुलीयलसदंगुलिपल्लवाढ्याम् |
माणिक्यहेमवलयांगदशोभमानां
पुंड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ‖ 2 ‖

प्रातर्नमामि ललिताचरणारविंदं
भक्तेष्टदाननिरतं भवसिंधुपोतम् |
पद्मासनादिसुरनायकपूजनीयं
पद्मांकुशध्वजसुदर्शनलांछनाढ्यम् ‖ 3 ‖

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यंतवेद्यविभवां करुणानवद्याम् |
विश्वस्य सृष्टविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ‖ 4 ‖

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति |
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ‖ 5 ‖

यः श्लोकपंचकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभाते |
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ‖