View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
केतु कवचम्
ध्यानं
केतुं करालवदनं चित्रवर्णं किरीटिनम् |
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ‖ 1 ‖
| अथ केतु कवचम् |
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः |
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ‖ 2 ‖
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः |
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ‖ 3 ‖
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः |
सिंहासनः कटिं पातु मध्यं पातु महासुरः ‖ 4 ‖
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः |
पातु पादौ च मे क्रूरः सर्वांगं नरपिंगलः ‖ 5 ‖
फलश्रुतिः
य इदं कवचं दिव्यं सर्वरोगविनाशनम् |
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ‖ 6 ‖
‖ इति श्रीब्रह्मांडपुराणे केतुकवचं संपूर्णम् ‖