View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
द्वादश ज्योतिर्लिंग स्तोत्रम्
लघु स्तोत्रम्
सौराष्ट्रे सोमनाधंच श्रीशैले मल्लिकार्जुनम् |
उज्जयिन्यां महाकालं ॐकारेत्वमामलेश्वरम् ‖
पर्ल्यां वैद्यनाधंच ढाकिन्यां भीम शंकरम् |
सेतुबंधेतु रामेशं नागेशं दारुकावने ‖
वारणाश्यांतु विश्वेशं त्रयंबकं गौतमीतटे |
हिमालयेतु केदारं घृष्णेशंतु विशालके ‖
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः |
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ‖
संपूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् |
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ‖ 1 ‖
श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगेऽपि सदा वसंतम् |
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ‖ 2 ‖
अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ‖ 3 ‖
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय |
सदैव मांधातृपुरे वसंतं ॐकारमीशं शिवमेकमीडे ‖ 4 ‖
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ‖ 5 ‖
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ‖ 6 ‖
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः |
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ‖ 7 ‖
याम्ये सदंगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ‖ 8 ‖
सानंदमानंदवने वसंतं आनंदकंदं हतपापबृंदम् |
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ‖ 9 ‖
सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे |
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ‖ 10 ‖
महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः |
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ‖ 11 ‖
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसंतं च जगद्वरेण्यम् |
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ‖ 12 ‖
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ‖