View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

सूर्य कवचम्

श्रीभैरव उवाच

यो देवदेवो भगवान् भास्करो महसां निधिः |
गयत्रीनायको भास्वान् सवितेति प्रगीयते ‖ 1 ‖

तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् |
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ‖ 2 ‖

सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् |
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् ‖ 3 ‖

सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् |
सर्वतेजोमयं सर्वदेवदानवपूजितम् ‖ 4 ‖

रणे राजभये घोरे सर्वोपद्रवनाशनम् |
मातृकावेष्टितं वर्म भैरवानननिर्गतम् ‖ 5 ‖

ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् |
धारणादस्य देवेशि ब्रह्मा लोकपितामहः ‖ 6 ‖

विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति |
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ‖ 7 ‖

ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः |
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ‖ 8 ‖

यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि |
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ‖ 9 ‖

बहुनोक्तेन किं देवि कवचस्यास्य धारणात् |
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ‖ 10 ‖

परत्र परमा मुक्तिर्देवानामपि दुर्लभा |
कवचस्यास्य देवेशि मूलविद्यामयस्य च ‖ 11 ‖

वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः |
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ‖ 12 ‖

माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि |
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ‖ 13 ‖

अथ सूर्य कवचं

ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः |
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ‖ 14 ‖

~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः |
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ‖ 15 ‖

कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः |
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः ‖ 16 ‖

टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः |
तं थं दं धं गलं पातु नं नारायणवल्लभः ‖ 17 ‖

पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः |
यं रं लं वं भुजौ पातु मूलं सकनायकः ‖ 18 ‖

शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः |
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ‖ 19 ‖

ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः |
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ‖ 20 ‖

~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः |
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ‖ 21 ‖

टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु |
पं फं बं भं यं रं लं वं जङ्घे मेऽव्याद् विभाकरः ‖ 22 ‖

शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः |
ङं ञं णं नं मं मे पातु सविता सकलं वपुः ‖ 23 ‖

सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु |
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् ‖ 24 ‖

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः |
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ‖ 25 ‖

ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः |
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ‖ 26 ‖

सायं वेदप्रियः पातु निशीथे विस्फुरापतिः |
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ‖ 27 ‖

रणे राजकुले द्यूते विदादे शत्रुसङ्कटे |
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ‖ 28 ‖

ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः |
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा ‖ 29 ‖

द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् |
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ‖ 30‖

अथ फलशृतिः

इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् |
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ‖ 31 ‖

महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् |
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ‖ 32 ‖

लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये |
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ‖ 33 ‖

अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि |
कनकीकाष्ठलेखन्या कवचं भास्करोदये ‖ 34 ‖

श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् |
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ‖ 35 ‖

रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति |
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ‖ 36 ‖

कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी |
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ‖ 37 ‖

भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी |
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ‖ 38 ‖

कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये |
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ‖ 39 ‖

महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति |
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ‖ 40 ‖

त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् |
तस्य सद्यो महादेवि सविता वरदो भवेत् ‖ 41 ‖

अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् |
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ‖ 42 ‖

शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे |
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ‖ 43 ‖

निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् |
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ‖ 44 ‖

भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये |
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ‖ 45 ‖

इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ‖