View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
सुब्रह्मण्य पञ्च रत्न स्तोत्रम्
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् |
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 1 ‖
जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् |
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 2 ‖
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् |
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 3 ‖
सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् |
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 4 ‖
इष्टार्थसिद्धिप्रदमीशपुत्रं इष्टान्नदं भूसुरकामधेनुम् |
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ‖ 5 ‖
यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् |
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ‖