View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्रीमद् भगवद् गीत नवमोऽध्यायः
अथ नवमोऽध्यायः |
श्रीभगवानुवाच |
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‖ 1 ‖
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ‖ 2 ‖
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप |
अप्राप्य मां निवर्तंते मृत्युसंसारवर्त्मनि ‖ 3 ‖
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ‖ 4 ‖
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ‖ 5 ‖
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ‖ 6 ‖
सर्वभूतानि कौंतेय प्रकृतिं यांति मामिकाम् |
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ‖ 7 ‖
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ‖ 8 ‖
न च मां तानि कर्माणि निबध्नंति धनंजय |
उदासीनवदासीनमसक्तं तेषु कर्मसु ‖ 9 ‖
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् |
हेतुनानेन कौंतेय जगद्विपरिवर्तते ‖ 10 ‖
अवजानंति मां मूढा मानुषीं तनुमाश्रितम् |
परं भावमजानंतो मम भूतमहेश्वरम् ‖ 11 ‖
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ‖ 12 ‖
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
भजंत्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ‖ 13 ‖
सततं कीर्तयंतो मां यतंतश्च दृढव्रताः |
नमस्यंतश्च मां भक्त्या नित्ययुक्ता उपासते ‖ 14 ‖
ज्ञानयज्ञेन चाप्यन्ये यजंतो मामुपासते |
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ‖ 15 ‖
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ‖ 16 ‖
पिताहमस्य जगतो माता धाता पितामहः |
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ‖ 17 ‖
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ‖ 18 ‖
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ‖ 19 ‖
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयंते|
ते पुण्यमासाद्य सुरेंद्रलोकमश्नंति दिव्यांदिवि देवभोगान् ‖ 20 ‖
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशंति|
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभंते ‖ 21 ‖
अनन्याश्चिंतयंतो मां ये जनाः पर्युपासते |
एषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ‖ 22‖
येऽप्यन्यदेवता भक्ता यजंते श्रद्धयान्विताः |
तेऽपि मामेव कौंतेय यजंत्यविधिपूर्वकम् ‖ 23 ‖
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |
न तु मामभिजानंति तत्त्वेनातश्च्यवंति ते ‖ 24 ‖
यांति देवव्रता देवान्पितॄन्यांति पितृव्रताः |
भूतानि यांति भूतेज्या यांति मद्याजिनोऽपि माम् ‖ 25 ‖
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ‖ 26 ‖
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |
यत्तपस्यसि कौंतेय तत्कुरुष्व मदर्पणम् ‖ 27 ‖
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबंधनैः |
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ‖ 28 ‖
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |
ये भजंति तु मां भक्त्या मयि ते तेषु चाप्यहम् ‖ 29 ‖
अपि चेत्सुदुराचारो भजते मामनन्यभाक् |
साधुरेव स मंतव्यः सम्यग्व्यवसितो हि सः ‖ 30 ‖
क्षिप्रं भवति धर्मात्मा शश्वच्छांतिं निगच्छति |
कौंतेय प्रतिजानीहि न मे भक्तः प्रणश्यति ‖ 31 ‖
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यांति परां गतिम् ‖ 32 ‖
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ‖ 33 ‖
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ‖ 34 ‖
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ‖9 ‖