View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्
देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ‖
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ‖
ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकं |
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ‖
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् |
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं ‖
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् |
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ‖
समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं |
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं ‖
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु |
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ‖
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी |
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ‖
ध्यानम्
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषितां |
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ‖
सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे |
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ‖
ॐ
प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां |
श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ‖ 1 ‖
वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां |
धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ‖ 2 ‖
अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीं |
नमामि कमलां, कांतां, क्षमां, क्षीरोद संभवाम् ‖ 3 ‖
अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभां |
अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ‖ 4 ‖
नमामि धर्मनिलयां, करुणां, लोकमातरं |
पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुंदरीम् ‖ 5 ‖
पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां |
पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगंधिनीम् ‖ 6 ‖
पुण्यगंधां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां |
नमामि चंद्रवदनां, चंद्रां, चंद्रसहोदरीम् ‖ 7 ‖
चतुर्भुजां, चंद्ररूपां, इंदिरा,मिंदुशीतलां |
आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ‖ 8 ‖
विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीं |
प्रीति पुष्करिणीं, शांतां, शुक्लमाल्यांबरां, श्रियम् ‖ 9 ‖
भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं |
वसुंधरा, मुदारांगां, हरिणीं, हेममालिनीम् ‖ 10 ‖
धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदां |
नृपवेश्म गतानंदां, वरलक्ष्मीं, वसुप्रदाम् ‖ 11 ‖
शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां |
नमामि मंगलां देवीं, विष्णु वक्षःस्थल स्थिताम् ‖ 12 ‖
विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां |
दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ‖ 13 ‖
नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां |
त्रिकालज्ञान संपन्नां, नमामि भुवनेश्वरीम् ‖ 14 ‖
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीं |
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ‖
श्रीमन्मंद कटाक्ष लब्ध विभवद्-ब्रह्मेंद्र गंगाधरां |
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ‖ 15 ‖
मातर्नमामि! कमले! कमलायताक्षि!
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!
क्षीरोदजे कमल कोमल गर्भगौरि!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ‖ 16 ‖
त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः |
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः |
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतं |
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 17 ‖
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं |
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ‖
दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतं |
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 18 ‖
भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् |
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये |
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ‖ 19 ‖
इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं संपूर्णम्