View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

शिव षडक्षरी स्तोत्रम्

‖ॐ ॐ‖
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः |
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ‖ 1 ‖

‖ॐ नं‖
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः |
नराणामादिदेवाय नकाराय नमोनमः ‖ 2 ‖

‖ॐ मं‖
महातत्वं महादेव प्रियं ज्ञानप्रदं परं |
महापापहरं तस्मान्मकाराय नमोनमः ‖ 3 ‖

‖ॐ शिं‖
शिवं शांतं शिवाकारं शिवानुग्रहकारणं |
महापापहरं तस्माच्छिकाराय नमोनमः ‖ 4 ‖

‖ॐ वां‖
वाहनं वृषभोयस्य वासुकिः कंठभूषणं |
वामे शक्तिधरं देवं वकाराय नमोनमः ‖ 5 ‖

‖ॐ यं‖
यकारे संस्थितो देवो यकारं परमं शुभं |
यं नित्यं परमानंदं यकाराय नमोनमः ‖ 6 ‖

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ |
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ‖

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा |
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ‖

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् |