View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

शिव षडक्षरी स्तोत्रम्

‖ॐ ॐ‖
ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः |
कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ‖ 1 ‖

‖ॐ नं‖
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः |
नराणामादिदेवाय नकाराय नमोनमः ‖ 2 ‖

‖ॐ मं‖
महातत्वं महादेव प्रियं ज्ञानप्रदं परं |
महापापहरं तस्मान्मकाराय नमोनमः ‖ 3 ‖

‖ॐ शिं‖
शिवं शान्तं शिवाकारं शिवानुग्रहकारणं |
महापापहरं तस्माच्छिकाराय नमोनमः ‖ 4 ‖

‖ॐ वां‖
वाहनं वृषभोयस्य वासुकिः कण्ठभूषणं |
वामे शक्तिधरं देवं वकाराय नमोनमः ‖ 5 ‖

‖ॐ यं‖
यकारे संस्थितो देवो यकारं परमं शुभं |
यं नित्यं परमानन्दं यकाराय नमोनमः ‖ 6 ‖

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ |
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ‖

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा |
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरन्तरम् ‖

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् |