View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

नवग्रह स्तोत्रम्

नवग्रह ध्यान श्लोकम्
आदित्याय च सोमाय मंगळाय बुधाय च |
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ‖

रविः
जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् |
तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ‖

चंद्रः
दथिशंख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव संभवम्) |
नमामि शशिनं सोमं शंभो-र्मकुट भूषणम् ‖

कुजः
धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् |
कुमारं शक्तिहस्तं तं मंगळं प्रणमाम्यहम् ‖

बुधः
प्रियंगु कलिकाश्यामं रूपेणा प्रतिमं बुधम् |
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ‖

गुरुः
देवानां च ऋषीणां च गुरुं कांचनसन्निभम् |
बुद्धिमंतं त्रिलोकेशं तं नमामि बृहस्पतिम् ‖

शुक्रः
हिमकुंद मृणाळाभं दैत्यानं परमं गुरुम् |
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ‖

शनिः
नीलांजन समाभासं रविपुत्रं यमाग्रजम् |
छाया मार्तांड संभूतं तं नमामि शनैश्चरम् ‖

राहुः
अर्धकायं महावीरं चंद्रादित्य विमर्धनम् |
सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ‖

केतुः
फलाश पुष्प संकाशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ‖

फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः |
दिवा वा यदि वा रात्रौ विघ्नशांति-र्भविष्यति ‖

नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् |
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ‖

ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः |
तास्सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः ‖

इति व्यास विरचितं नवग्रह स्तोत्रं संपूर्णम् |