View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
मंत्र पुष्पम्
यो'ऽपां पुष्पं वेद' पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | चंद्रमा वा अपां पुष्पम्'' | पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | य एवं वेद' | योऽपामायत'नं वेद' | आयतन'वान् भवति |
अग्निर्वा अपामायत'नं | आयत'नवान् भवति | यो''ग्नेरायत'नं वेद' | आयत'नवान् भवति | आपोवा अग्नेरायत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
वायुर्वा अपामायत'नम् | आयत'नवान् भवति | यो वायोरायत'नं वेद' | आयत'नवान् भवति | आपो वै वायोरायत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
असौ वै तप'न्नपामायत'नं आयत'नवान् भवति | यो'ऽमुष्यतप'त आयत'नं वेद' | आयत'नवान् भवति | आपो' वा अमुष्यतप'त आयत'नं |आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
चंद्रमा वा अपामायत'नम् | आयत'नवान् भवति | यः चंद्रम'स आयत'नं वेद' | आयत'नवान् भवति | आपो वै चंद्रम'स आयत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
नक्ष्त्र'त्राणि वा अपामायत'नं | आयत'नवान् भवति | यो नक्ष्त्र'त्राणामायत'नं वेद' | आयत'नवान् भवति | आपो वै नक्ष'त्राणामायत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
पर्जन्यो वा अपामायत'नं | आयत'नवान् भवति | यः पर्जन्य'स्यायत'नं वेद' | आयत'नवान् भवति | आपो वै पर्जन्यस्यायत'नं | आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | आयत'नवान् भवति |
संवत्सरो वा अपामायत'नं | आयत'नवान् भवति | यः सं'वत्सरस्यायत'नं वेद' | आयत'नवान् भवति | आपो वै सं'वत्सरस्यायत'नं वेद' | आयत'नवान् भवति | य एवं वेद' | यो''ऽप्सु नावं प्रति'ष्ठितां वेद' | प्रत्येव ति'ष्ठति |
ॐ राजाधिराजाय' प्रसह्य साहिने'' | नमो' वयं वै''श्रवणाय' कुर्महे | स मे कामान् काम कामा'य मह्यम्'' | कामेश्वरो वै''श्रवणो द'दातु | कुबेराय' वैश्रवणाय' | महाराजाय नमः' |
ॐ'' तद्ब्रह्म | ॐ'' तद्वायुः | ॐ'' तदात्मा |
ॐ'' तद्सत्यम् | ॐ'' तत्सर्वम्'' | ॐ'' तत्-पुरोर्नमः ‖
अंतश्चरति भूतेषु गुहायां विश्वमूर्तिषु
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिंद्रस्त्वग्^म्
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं' प्रजापतिः |
त्वं तदाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् |
ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां
ब्रह्माधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् |
तद्विष्नोः परमं पदग्^म् सदा पश्यंति
सूरयः दिवीवचक्षु राततं तद्वि प्रासो
विपस्यवो जागृहान् सत्समिंधते
तद्विष्नोर्य-त्परमं पदम् |
ऋतग्^म् सत्यं प'रं ब्रह्म पुरुषं' कृष्णपिंग'लम् |
ऊर्ध्वरे'तं वि'रूपा'क्षं विश्वरू'पाय वै नमो नमः' ‖
ॐ नारायणाय' विद्महे' वासुदेवाय' धीमहि |
तन्नो' विष्णुः प्रचोदया''त् ‖
ॐ शांतिः शांतिः शांतिः' |