View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
गणेश मङ्गलाष्टकम्
गजाननाय गाङ्गेयसहजाय सदात्मने |
गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम् ‖ 1 ‖
नागयज्ञोपवीदाय नतविघ्नविनाशिने |
नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम् ‖ 2 ‖
इभवक्त्राय चेन्द्रादि वन्दिताय चिदात्मने |
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् ‖ 3 ‖
सुमुखाय सुशुण्डाग्रात्-क्षिप्तामृतघटाय च |
सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम् ‖ 4 ‖
चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च |
चरणावनतानन्ततारणायास्तु मङ्गलम् ‖ 5 ‖
वक्रतुण्डाय वटवे वन्याय वरदाय च |
विरूपाक्ष सुतायास्तु मङ्गलम् ‖ 6 ‖
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे |
प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम् ‖ 7 ‖
मङ्गलं गणनाथाय मङ्गलं हरसूनने |
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलं ‖ 8 ‖
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात् |
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ‖
‖ इति श्री गणेश मङ्गलाष्टकम् ‖