View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

गणेश द्वादशनाम स्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं |
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ‖ 1 ‖

अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः |
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ‖ 2 ‖

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः |
प्रसन्नो भव मे नित्यं वरदातर्विनायक ‖ 3 ‖

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः |
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ‖ 4 ‖

धूम्रकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः |
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ‖ 5 ‖

विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् |
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ‖ 6 ‖

विध्यारम्भे विवाहे च प्रवेशे निर्गमे तथा |
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ‖ 7 ‖

‖ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ‖