View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
देवी महात्म्यम् नवावर्ण विधि
श्रीगणपतिर्जयति | ॐ अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः,
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे
विनियोगः‖
ऋष्यादिन्यासः
ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे |
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि | ऐं बीजाय नमः, गुह्ये |
ह्रीं शक्तये नमः, पादयोः | क्लीं कीलकाय नमः, नाभौ | ॐ ऐं ह्रीं क्लीं चामुण्डायै
विच्चे -- इति मूलेन करौ संशोध्य
करन्यासः
ॐ ऐं अङ्गुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ क्लीं मध्यमाभ्यां
नमः | ॐ चामुण्डायै अनामिकाभ्यां नमः | ॐ विच्चे कनिष्ठिकाभ्यां नमः | ॐ ऐं
ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यासः
ॐ ऐं हृदयाय नमः | ॐ ह्रीं शिरसे स्वाह | ॐ क्लीं शिखायै वषट् | ॐ चामुण्डायै
कवचाय हुम् | ॐ विच्चे नेत्रत्रयाय वौषट् | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
अस्त्राय फट् |
अक्षरन्यासः
ॐ ऐं नमः, शिखायाम् | ॐ ह्रीं नमः, दक्षिणनेत्रे | ॐ क्लीं नमः, वामनेत्रे | ॐ
चां नमः, दक्षिणकर्णे | ॐ मुं नमः, वामकर्णे | ॐ डां नमः,
दक्षिणनासापुटे | ॐ यैं नमः, वामनासापुटे | ॐ विं नमः, मुखे | ॐ च्चें
नमः, गुह्ये |
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् |
दिङ्न्यासः
ॐ ऐं प्राच्यै नमः | ॐ ऐं आग्नेय्यै नमः | ॐ ह्रीं दक्षिणायै नमः | ॐ ह्रीं
नै^^ऋत्यै नमः | ॐ क्लीं पतीच्यै नमः | ॐ क्लीं वायुव्यै नमः | ॐ चामुण्डायै
उदीच्यै नमः | ॐ चामुण्डायै ऐशान्यै नमः | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
ऊर्ध्वायै नमः | ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः |
ध्यानम्
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् |
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ‖
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् |
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ‖
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं |
हस्ताब्जैर्धधतीं घनान्तविलसच्छीतांशुतुल्यप्रभां |
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा |
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्धिनीम् ‖
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे |
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖
ऐं ह्रीं अक्षमालिकायै नमः ‖ 108 ‖
ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि |
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ‖
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे |
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा |
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ‖ 108 ‖
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा |
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ‖
करन्यासः
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः | ॐ चं तर्जनीभ्यां नमः | ॐ डिं मध्यमाभ्यां
नमः | ॐ कां अनामिकाभ्यां नमः | ॐ यैं कनिष्ठिकाभ्यां नमः | ॐ ह्रीं
चण्डिकायै करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा |
शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा | हृदयाय नमः ‖
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके |
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च | शिरसे स्वाहा ‖
ॐ प्राच्यां रक्ष प्रतीञ्च्यां च रक्ष चण्डिके रक्ष दक्षिणे |
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि | शिखायै वषट् ‖
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते |
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् | कवचाय हुम् ‖
ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽम्बिके |
करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः | नेत्रत्रयाय वौषट् ‖
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते |
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते | अस्त्राय फट् ‖
ध्यानम्
ॐ विद्युद्दामप्रभां मृगपतिस्कन्धस्थितां भीषणां |
कन्याभिः करवालखेटविलसद्धस्ताभिरासेवितां |
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं |
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖