View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति तृतीयोऽध्यायः
महिषासुरवधो नाम तृतीयोऽध्यायः ‖
ध्यानं
ॐ उद्यद्भानुसहस्रकांतिं अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरं |
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविंदश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वंदेऽरविंदस्थिताम् ‖
ऋषिरुवाच ‖1‖
निहन्यमानं तत्सैन्यं अवलोक्य महासुरः|
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथांबिकाम् ‖2‖
स देवीं शरवर्षेण ववर्ष समरेऽसुरः|
यथा मेरुगिरेःशृंगं तोयवर्षेण तोयदः ‖3‖
तस्य छित्वा ततो देवी लीलयैव शरोत्करान्|
जघान तुरगान्बाणैर्यंतारं चैव वाजिनाम् ‖4‖
चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्|
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ‖5‖
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः|
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ‖6‖
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि|
आजघान भुजे सव्ये देवीं अव्यतिवेगवान् ‖6‖
तस्याः खड्गो भुजं प्राप्य पफाल नृपनंदन|
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ‖8‖
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः|
जाज्वल्यमानं तेजोभी रविबिंबमिवांबरात् ‖9‖
दृष्ट्वा तदापतच्छूलं देवी शूलममुंचत|
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ‖10‖
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ|
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ‖11‖
सोऽपि शक्तिंमुमोचाथ देव्यास्तां अंबिका द्रुतम्|
हुंकाराभिहतां भूमौ पातयामासनिष्प्रभाम् ‖12‖
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ‖13‖
ततः सिंहःसमुत्पत्य गजकुंतरे ंभांतरेस्थितः|
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ‖14‖
युध्यमानॊउ ततस्तॊउ तु तस्मान्नागान्महीं गतॊउ
युयुधातेऽतिसंरब्धौ प्रहारै अतिदारुणैः ‖15‖
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा|
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ‖16‖
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः|
दंत मुष्टितलैश्चैव करालश्च निपातितः ‖17‖
देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्|
भाष्कलं भिंदिपालेन बाणैस्ताम्रं तथांधकम् ‖18‖
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ‖19‖
बिडालस्यासिना कायात् पातयामास वै शिरः|
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ‖20‖
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः|
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ‖21‖
कांश्चित्तुंडप्रहारेण खुरक्षेपैस्तथापरान्|
लांगूलताडितांश्चान्यान् शृंगाभ्यां च विदारिता ‖22‖
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च|
निः श्वासपवनेनान्यान् पातयामास भूतले‖23‖
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः
सिंहं हंतुं महादेव्याः कोपं चक्रे ततोऽंभिका ‖24‖
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः|
शृंगाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ‖25‖
वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत|
लांगूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ‖26‖
धुतशृंग्विभिन्नाश्च खंडं खंडं ययुर्घनाः|
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ‖27‖
इतिक्रोधसमाध्मातमापतंतं महासुरम्|
दृष्ट्वा सा चंडिका कोपं तद्वधाय तदाऽकरोत् ‖28‖
सा क्षित्प्वा तस्य वैपाशं तं बबंध महासुरम्|
तत्याजमाहिषं रूपं सोऽपि बद्धो महामृधे ‖29‖
ततः सिंहोऽभवत्सध्यो यावत्तस्यांबिका शिरः|
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ‖30‖
तत एवाशु पुरुषं देवी चिच्छेद सायकैः|
तं खड्गचर्मणा सार्धं ततः सोऽ भून्महा गजः ‖31‖
करेण च महासिंहं तं चकर्ष जगर्जच |
कर्षतस्तु करं देवी खड्गेन निरकृंतत ‖32‖
ततो महासुरो भूयो माहिषं वपुरास्थितः|
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ‖33‖
ततः क्रुद्धा जगन्माता चंडिका पान मुत्तमम्|
पपौ पुनः पुनश्चैव जहासारुणलोचना ‖34‖
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः|
विषाणाभ्यां च चिक्षेप चंडिकां प्रतिभूधरान्‖35‖
सा च ता न्प्रहितां स्तेन चूर्णयंती शरोत्करैः|
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ‖36‖
देव्यु^^उवाच‖
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्|
मयात्वयि हतेऽत्रैव गर्जिष्यंत्याशु देवताः ‖37‖
ऋषिरुवाच‖
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्|
पादेना क्रम्य कंठे च शूलेनैन मताडयत् ‖38‖
ततः सोऽपि पदाक्रांतस्तया निजमुखात्ततः|
अर्ध निष्क्रांत एवासीद्देव्या वीर्येण संवृतः ‖40‖
अर्ध निष्क्रांत एवासौ युध्यमानो महासुरः |
तया महासिना देव्या शिरश्छित्त्वा निपातितः ‖41‖
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्|
प्रहर्षं च परं जग्मुः सकला देवतागणाः ‖42‖
तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः|
जगुर्गुंधर्वपतयो ननृतुश्चाप्सरोगणाः ‖43‖
‖ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये महिषासुरवधो नाम तृतीयोऽध्यायं समाप्तं ‖
आहुति
ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖