View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

देवी महात्म्यम् दुर्गा सप्तशति द्वितीयोऽध्यायः

महिषासुर सैन्यवधो नाम द्वितीयोऽध्यायः ‖

अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः | उष्णिक् छन्दः | श्रीमहालक्ष्मीदेवता| शाकम्भरी शक्तिः | दुर्गा बीजं | वायुस्तत्त्वं | यजुर्वेदः स्वरूपं | श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ‖

ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् |
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थितां ‖

ऋषिरुवाच ‖1‖

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा|
महिषेऽसुराणां अधिपे देवानाञ्च पुरन्दरे

तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं|
जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ‖3‖

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्|
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ‖4‖

यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्|
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ‖5‖

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ‖6‖

स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः|
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ‖6‖

एतद्वः कथितं सर्वं अमरारिविचेष्टितम्|
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ‖8‖

इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ‖9‖

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः|
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ‖10‖

अन्येषां चैव देवानां शक्रादीनां शरीरतः|
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ‖11‖

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्|
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ‖12‖

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्|
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ‖13‖

यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्|
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ‖14‖

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्|
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ‖15‖

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्क तेजसा|
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ‖16‖

तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ‖17‖

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ‖18‖

ततः समस्त देवानां तेजोराशिसमुद्भवाम्|
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ‖19‖

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्|
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ‖20‖

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ‖21‖

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः|
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ‖22‖

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ|
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ‖23‖

समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ‖24‖

क्षीरोदश्चामलं हारं अजरे च तथाम्बरे
चूडामणिं तथादिव्यं कुण्डले कटकानिच ‖25‖

अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ‖26‖

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ‖27‖

अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्|
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्‖28‖

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्|
हिमवान् वाहनं सिंहं रत्नानि विविधानिच‖29‖

ददावशून्यं सुरया पानपात्रं दनाधिपः|
शेषश्च सर्व नागेशो महामणि विभूषितम् ‖30‖

नागहारं ददॊउ तस्यै धत्ते यः पृथिवीमिमाम्|
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ‖31‖

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु|
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ‖32‖

अमायतातिमहता प्रतिशब्दो महानभूत्|
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ‖33‖

चचाल वसुधा चेलुः सकलाश्च महीधराः|
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ‖34‖

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः|
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यं अमरारयः ‖35‖

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः|
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ‖36‖

अभ्यधावत तं शब्दं अशेषैरसुरैर्वृतः|
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा‖37‖

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्|
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ‖38‖

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्|
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ‖39‖

शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्|
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ‖40‖

युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः|
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ‖41‖

अयुध्यतायुतानां च सहस्रेण महाहनुः|
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ‖42‖

अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे|
गजवाजि सहस्रौघै रनेकैः परिवारितः ‖43‖

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत|
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ‖44‖

युयुधे संयुगे तत्र रथानां परिवारितः|
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ‖45‖

युयुधुः संयुगे देव्या सह तत्र महासुराः|
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ‖46‖

हयानां च वृतो युद्धे तत्राभून्महिषासुरः|
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ‖47‖

युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः|
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ‖48‖

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः|
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ‖49‖

लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी|
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ‖50‖

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी|
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ‖51‖

चचारासुर सैन्येषु वनेष्विव हुताशनः|
निःश्वासान् मुमुचेयांश्च युध्यमानारणेऽम्बिका‖52‖

त एव सध्यसम्भूता गणाः शतसहस्रशः|
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ‖53‖

नाशयन्तोऽअसुरगणान् देवीशक्त्युपबृंहिताः|
अवादयन्ता पटहान् गणाः शङां स्तथापरे‖54‖

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे|
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः‖55‖

खड्गादिभिश्च शतशो निजघान महासुरान्|
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ‖56‖

असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्|
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे‖57‖

विपोथिता निपातेन गदया भुवि शेरते|
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ‖58‖

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि|
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ‖59‖

शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः|
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ‖60‖

शिरांसि पेतुरन्येषां अन्ये मध्ये विदारिताः|
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ‖61‖

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः|
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ‖62‖

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः|
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ‖63‖

कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः|
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ‖64‖

पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा|
अगम्या साभवत्तत्र यत्राभूत् स महारणः ‖65‖

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः|
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ‖66‖

क्षणेन तन्महासैन्यमसुराणां तथाऽम्बिका|
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ‖67‖

सच सिंहो महानादमुत्सृजन् धुतकेसरः|
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ‖68‖

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः|
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ‖69‖

जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः‖

आहुति
ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा |