View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖

ध्यानं
ॐ बालार्क मंडलाभासां चतुर्बाहुं त्रिलोचनां |
पाशांकुश वराभीतीर्धारयंतीं शिवां भजे ‖

ऋषिरुवाच ‖ 1 ‖

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् |
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖

विद्या तथैव क्रियते भगवद्विष्णुमायया |
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः|
मोह्यंते मोहिताश्चैव मोहमेष्यंति चापरे ‖4‖

तामुपैहि महाराज शरणं परमेश्वरीं|
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖

मार्कंडेय उवाच ‖6‖

इति तस्य वचः शृत्वा सुरथः स नराधिपः|
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖

निर्विण्णोतिममत्वेन राज्यापहरेणन च|
जगाम सद्यस्तपसे सच वैश्यो महामुने ‖8‖

संदर्शनार्थमंभाया न'006छ्;पुलिन मास्थितः|
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्|
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖

निराहारौ यताहारौ तन्मनस्कौ समाहितौ|
ददतुस्तौ बलिंचैव निजगात्रासृगुक्षितम् ‖11‖

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः|
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका ‖12‖

देव्युवाचा‖13‖

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनंदन|
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖

मार्कंडेय उवाच‖15‖

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि|
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖

सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः|
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्‖17‖

देव्युवाच‖18‖

स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्|
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖

मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः|
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖

वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवांचितः|
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति‖21‖

मार्कंडेय उवाच

इति दत्वा तयोर्देवी यथाखिलषितं वरं|
भभूवांतर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖

इति दत्वा तयोर्देवी यथभिलषितं वरम्|
बभूवांतर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖

|क्लीं ॐ|

‖ जय जय श्री मार्कंडेयपुराणे सावर्णिके मन्वंतरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖

‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖
| ॐ तत् सत् |

आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुंदर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖

ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा
शंखिणी चापिनी बाणा भुशुंडीपरिघायुधा | हृदयाय नमः |

ॐ शूलेन पाहिनो देवि पाहि खड्गेन चांबिके|
घंटास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा |

ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि | शिखायै वषट् |

ॐ सॊउम्यानि यानिरूपाणि त्रैलोक्ये विचरंतिते
यानि चात्यंत घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं |

ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेंबिके
करपल्लवसंगीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् |

ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते | करतल करपृष्टाभ्यां नमः |
ॐ भूर्भुव स्सुवः इति दिग्विमिकः |