View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖
ध्यानं
ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनां |
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ‖
ऋषिरुवाच ‖ 1 ‖
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् |
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖
विद्या तथैव क्रियते भगवद्विष्णुमायया |
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः|
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ‖4‖
तामुपैहि महाराज शरणं परमेश्वरीं|
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖
मार्कण्डेय उवाच ‖6‖
इति तस्य वचः शृत्वा सुरथः स नराधिपः|
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖
निर्विण्णोतिममत्वेन राज्यापहरेणन च|
जगाम सद्यस्तपसे सच वैश्यो महामुने ‖8‖
सन्दर्शनार्थमम्भाया न'006छ्;पुलिन मास्थितः|
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्|
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖
निराहारौ यताहारौ तन्मनस्कौ समाहितौ|
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ‖11‖
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः|
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ‖12‖
देव्युवाचा‖13‖
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन|
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖
मार्कण्डेय उवाच‖15‖
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि|
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः|
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्‖17‖
देव्युवाच‖18‖
स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्|
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः|
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖
वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्चितः|
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति‖21‖
मार्कण्डेय उवाच
इति दत्वा तयोर्देवी यथाखिलषितं वरं|
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖
इति दत्वा तयोर्देवी यथभिलषितं वरम्|
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖
|क्लीं ॐ|
‖ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖
‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖
| ॐ तत् सत् |
आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖
ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा | हृदयाय नमः |
ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके|
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा |
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि | शिखायै वषट् |
ॐ सॊउम्यानि यानिरूपाणि त्रैलोक्ये विचरन्तिते
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं |
ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् |
ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते | करतल करपृष्टाभ्यां नमः |
ॐ भूर्भुव स्सुवः इति दिग्विमिकः |