View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
देवी महात्म्यम् अपराध क्षमापणा स्तोत्रम्
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्|
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ‖1‖
सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदम्बिके|
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ‖2‖
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं|
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ‖3‖
कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे|
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ‖4‖
सर्वरूपमयी देवी सर्वं देवीमयं जगत्|
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ‖5‖
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्| ‖6‖
तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां‖7‖
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ‖8‖
तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ‖9‖
प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ‖10‖
‖इति अपराध क्षमापण स्तोत्रं समाप्तं‖