View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ‖ 1 ‖
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ‖ 2 ‖
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं |
अघोरपापसंहारं एकबिल्वं शिवार्पितं ‖ 3 ‖
सालग्रामेषु विप्रेषु तटाके वनकूपयोः |
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ‖ 4 ‖
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च |
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं ‖ 5 ‖
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् |
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं ‖ 6 ‖
काशीक्षेत्रे निवासं च कालभैरव दर्शनं |
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं ‖ 7 ‖
उमया सह देवेशं वाहनं नन्दिशङ्करं |
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं ‖ 8 ‖
इति श्री बिल्वाष्टकम् ‖
----------------
विकल्प सङ्कर्पण
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ‖
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ‖
कोटि कन्या महादानं तिलपर्वत कोटयः |
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणं ‖
काशीक्षेत्र निवासं च कालभैरव दर्शनं |
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ‖
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः |
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ‖
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा |
तटाकानिच सन्धानं एकबिल्वं शिवार्पणं ‖
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं |
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ‖
उमया सहदेवेश नन्दि वाहनमेव च |
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणं ‖
सालग्रामेषु विप्राणां तटाकं दशकूपयोः |
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणं ‖
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च |
कोटिकन्या महादानं एकबिल्वं शिवार्पणं ‖
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं |
अघोर पापसंहारं एकबिल्वं शिवार्पणं ‖
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते |
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणं ‖
अन्नदान सहस्रेषु सहस्रोपनयनं तधा |
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ‖
बिल्वाष्टकमिदम् पुण्यं यः पठेश्शिव सन्निधौ |
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ‖