View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अन्नमय्य कीर्तन किं करिष्यामि
किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ‖
नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं |
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ‖
तिरुवेङ्कटाचलाधीश्वरं करिराज- |
वरदं शरणागतवत्सलं |
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि‖