अर्ध नारीश्वर अष्टकम्
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय ।कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ 7 ॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥
Browse Related Categories: